Myvideo

Guest

Login

Ganapati Pratah Smarana Mantra with other prayers!

Uploaded By: Myvideo
1 view
0
0 votes
0

This video contains Ganapati Pratah Smarana and other Ganesh mantras to receive the blessings of the Lord! Please watch this video and subscribe this channel with Bell icon on for latest updates... उत्तिष्ठोत्तिष्ठ हेरम्ब उत्तिष्ठ ब्रह्मणस्पते । सर्वदा सर्वतः सर्वविघ्नान्मां पाहि विघ्नप ॥ आयुरारोग्यमैश्वर्यं माम् प्रदाय स्वभक्तिमत् । स्वेक्षणाशक्तिराद्या ते दक्षिणा पातु मं सदा ॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ प्रातर्नमामि चतुराननवन्द्यमान- मिच्छानुकूलमखिलं च वरं ददानम् । तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह- मुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥ श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥ कराग्रे सत्प्रभा बुद्धिः कमला करमध्यगा । करमूले मयूरेशः प्रभाते करदर्शनम् ॥ ज्ञानरूपवराहस्य पत्नि कर्मस्वरूपिणि । सर्वाधारे धरे नौमि पादस्पर्शं क्षमस्व मे ॥ तारश्रीनर्मदादूर्वाशमीमन्दारमोदित । द्विरदास्य मयूरेश दुःस्वप्नहर पाहि माम् ॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ गणनाथसरस्वतीरविशुक्रबृहस्पतीन् । पञ्चैतानि स्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सर्स्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ अगजानपद्मार्कं गजाननमहिरî

Share with your friends

Link:

Embed:

Video Size:

Custom size:

x

Add to Playlist:

Favorites
My Playlist
Watch Later